|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.209. अध्यायः 209
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
ईश्वरेण पार्वतींप्रति ऋषिधर्मकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्देवदेवेश त्रिपुरान्तक शङ्कर।
अयं त्वृषिगणो देव तपस्तप इति प्रभो॥ 13-209-1(89451)
तपसा कर्शितो नित्यं तपोऽर्जनपरायणः।
अस्य किंलक्षणो धर्मः कीदृशश्चागमस्तथा।
एतदिच्छाम्यहं श्रोतुं तन्मे वद वरप्रद॥ 13-209-2(89452)
नारद उवाच। 13-209-3x(7463)
एवं ब्रुवन्त्यां रुद्राण्यामृषयः साधुसाध्विति।
अब्रुवन्हृष्टमनसः सर्वे तद्गतमानसाः॥ 13-209-3(89453)
शृण्वन्तीमृषिधर्मांस्तु ऋषयश्चाभ्यपूजयन्॥ 13-209-4(89454)
ऋषय ऊचुः। 13-209-5x(7464)
त्वत्प्रसादद्वयं देवि श्रोष्यामः परमं हितम्।
धन्याः खलु वयं सर्वे पादमूलं तवाश्रिताः।
इति सर्वे तदा देवीं वाचा समभिपूजयन्॥ 13-209-5(89455)
महेश्वर उवाच। 13-209-6x(7465)
न्यायतस्त्वं महाभागे श्रोतुकामा मनस्विनि।
हन्त ते कथयिष्यामि मुनिधर्मं शुचिस्मिते॥ 13-209-6(89456)
वानप्रस्थं समाश्रित्य क्रियते बहुधा नरैः।
बहुशाखो बहुविधो ऋषिधर्मः सनातनः॥ 13-209-7(89457)
प्रायशः सर्वभोगार्थमृषिभिः क्रियते तपः।
तथा सञ्चरतां तेषां देवि धर्मविधिं शृणु॥ 13-209-8(89458)
भूत्वा पूर्वं गृहस्थस्तु पुत्रानृण्यमवाप्य च।
कलत्रकार्यं संस्थाप्य कारणात्संत्यजेद्गृहम्॥ 13-209-9(89459)
अवस्थाप्य मनो धृत्या व्यवसायपुरःसरः।
निर्दारो वा सदारो वा वनवासाय संव्रजेत्॥ 13-209-10(89460)
देशाः परमपुण्या ये नदीवनसमन्विताः।
अबोधमुक्ताः प्रायेण तीर्थायतनसंयुताः॥ 13-209-11(89461)
तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद्यथागमम्।
दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत्॥ 13-209-12(89462)
काल्योत्थानं च शौचं च सर्वदेवप्रणामनम्।
सकृदालेपनं काये त्यक्तदोषोऽप्रमादिता॥ 13-209-13(89463)
सायंप्रातश्चाभिषेकं चाग्निहोत्रं यथाविधि।
काले शौचं च कार्यं च जटावल्कलधारणम्॥ 13-209-14(89464)
सततं वनचर्या च समित्कुसुमकारणात्।
नीवाराग्रयणं काले शाकमूलोपचायनम्॥ 13-209-15(89465)
सदायतनशौचं च तस्य धर्माय चेष्यते।
अतिथीनामाभिमुख्यं तत्परत्वं च सर्वदा॥ 13-209-16(89466)
पाद्यासनाभ्यां सम्पूज्य तथाऽऽहारनिमन्त्रणम्।
अग्राम्यपचनं काले पितृदेवार्चनं तथा॥ 13-209-17(89467)
पश्चादतिथिसत्कारस्तस्य धर्मः सनातनः।
शिष्टैर्धर्मासने चैव धर्मार्थसहिताः कथाः॥ 13-209-18(89468)
प्रतिश्रयविभागश्च भूमिशय्या शिलासु वा।
व्रतोपवासयोगश्च क्षमा चेन्द्रियनिग्रहः॥ 13-209-19(89469)
दिवारात्रं यथायोगं शौचं धर्मस्य चिन्तनम्।
एवं धर्माः पुरा दृष्टाः सामान्या वनवासिनाम्॥ 13-209-20(89470)
एवं वै यतमानस्य कालधर्मो यथा भवेत्।
तथैव सोऽभिजयति स्वर्गलोकं शुचिस्मिते॥ 13-209-21(89471)
तत्र संविदिता भोगाः स्वर्गस्त्रीभिरनिन्दिते।
परिभ्रष्टो यथा स्वर्गाद्विशिष्टस्तु भवेन्नृषु॥ 13-209-22(89472)
एवं धर्मस्तथा देवि सर्वेषां वनवासिनाम्।
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि॥ 13-209-23(89473)
उमोवाच। 13-209-24x(7466)
भगवन्देवदेवेश ऋषीणां चरितं शुभम्।
विशेषधर्मानिच्छामि श्रोतुं कौतूहलं हि मे॥ 13-209-24(89474)
महेश्वर उवाच। 13-209-25x(7467)
तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता॥ 13-209-25(89475)
वननित्यैर्वनरतैर्वानप्रस्थैर्महर्षिभिः।
वनं गुरुमिवालम्ब्य वस्तुव्यमिति निश्चयः॥ 13-209-26(89476)
वीरशय्यामुपासद्भिर्वारस्थानोपसेविभिः।
व्रतोपवासैर्बहुलैर्ग्रीष्मे पञ्चतपैस्तथा॥ 13-209-27(89477)
पञ्चयज्ञपरैर्नित्यं पौर्णमास्यापरायणैः।
मण्डूकशायैर्हेमन्ते शैवालाङ्कुरभोजनैः॥ 13-209-28(89478)
चीरवल्कलसंवीतैर्मृगाजिनधरैस्तथा।
चातुर्मास्यपरैः कैश्चिद्देवधर्मपरायणैः॥ 13-209-29(89479)
एवंविधैर्वनेवासैस्तप्यते सुमहत्तपः।
एवं कृत्वा शुभं कर्म पश्चाद्याति त्रिविष्टपम्॥ 13-209-30(89480)
तत्रापि सुमहत्कालं संविहृत्यि यथासुखम्।
जायते मानुषे लोके दानभोगसमन्वितः॥ 13-209-31(89481)
तपोविशेषसंयुक्ताः कथितास्ते शुचिस्मिते॥ 13-209-32(89482)
उमोवाच। 13-209-33x(7468)
भगवन्देवदेवेश तेषु ये दारसंयुताः।
कीदृशं चरितं तेषां तन्मे शंसितुमर्हसि॥ 13-209-33(89483)
महेश्व उवाच। 13-209-34x(7469)
य एकपत्नीधर्माणश्चरन्ति विपुलं तपः।
विंध्यपादेषु ये केचिद्ये च नैमिशवासिनः॥ 13-209-34(89484)
पुष्करेषु च ये चान्ये नदीवनसमाश्रिताः।
सर्वे ते विधिदृष्टेन चरन्ति विपुलं तपः॥ 13-209-35(89485)
हिंसाद्रोहविमुक्ताश्च सर्वभूतानुकम्पिनः।
शान्ता दान्ता जितक्रोधाः सर्वातिथ्यपरायणाः॥ 13-209-36(89486)
प्राणिष्वात्मोपमा नित्यमृतुकालाभिगामिनः।
स्वदारसहिता देवि चरन्ति व्रतमुत्तमम्॥ 13-209-37(89487)
वसन्ति सुखमव्यग्राः पुत्रदारसमन्विताः।
तेषां परिच्छदारम्भाः कृतोपकरणानि च॥ 13-209-38(89488)
गृहस्थवद्द्वितीयं ते यथायोगं प्रमाणतः।
पोषणार्थं स्वदाराणामग्निकार्यार्थमेव च।
गावश्च कर्षणं चैव सर्वमेतद्विधीयते। 13-209-39(89489)
एवं वनगतैर्देवि कर्तव्यं दारसङ्ग्रहैः।
ते स्वदारैः समायान्ति पुण्याँल्लोकान्द्दढव्रताः॥ 13-209-40(89490)
पतिभिः सह ये दाराश्चरन्ति विपुलं तपः।
अव्यग्रभावादैकात्म्यात्ताश्च गच्छन्ति वै दिवम्।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि॥ ॥ 13-209-41(89491)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवाधिकद्विशततमोऽध्यायः॥ 209 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|